श्री बालरक्षा स्तोत्र | Shree Balraksha Stotra |
श्री बालरक्षा स्तोत्र
अगर छोटे बच्चो को बात बात पर नजर लगती है |
बुरे या डरावने स्वप्ने से भयभीत रहते है बच्चे तो अवश्य
श्रीमद भागवत के दशम स्कंध में स्थित
बालरक्षा स्तुति ( स्तोत्र ) का अवश्य पाठ करे |
|| श्रीगणेशाय नमः ||
|| श्रीकृष्णाय नमः ||
अव्यादजोंऽघ्रिर्मणिमांस्तव जान्वथोरु यज्ञोऽच्युतः कटितटं जठरं हयास्यः |
ह्रत्केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ||
चक्र्यगतः सहगदो हरिरस्तु पश्चात्वपार्श्वयोर्धनुरसी मधुहाजनश्च |
कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ||
इन्द्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु |
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ||
पृश्निगर्भश्च ते बुद्धिमात्मानं भगवान्परः |
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ||
वज्रन्तमव्याद्वैकुण्ठो आसिनं त्वां श्रियः पतिः |
भुन्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ||
डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः |
भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ||
कोटरारेवती ज्येष्ठापूतनामातृकादयः |
उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुह: ||
स्वप्नद्रष्टा महोत्पाता वृद्धबालग्रहाश्च ये |
सर्वे नश्यन्तु ते विष्णोर्नामग्रहण भीरवः ||
|| इति श्रीमद्भागवते दशमस्कन्धे गोपीकृतबालरक्षा सम्पूर्णं ||
कोई टिप्पणी नहीं: